Original

निविष्टायां तु सेनायामुत्सुको भरतस्तदा ।जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन् ॥ १ ॥

Segmented

निविष्टायाम् तु सेनायाम् उत्सुको भरतस् तदा जगाम भ्रातरम् द्रष्टुम् शत्रुघ्नम् अनुदर्शयन्

Analysis

Word Lemma Parse
निविष्टायाम् निविश् pos=va,g=f,c=7,n=s,f=part
तु तु pos=i
सेनायाम् सेना pos=n,g=f,c=7,n=s
उत्सुको उत्सुक pos=a,g=m,c=1,n=s
भरतस् भरत pos=n,g=m,c=1,n=s
तदा तदा pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
अनुदर्शयन् अनुदर्शय् pos=va,g=m,c=1,n=s,f=part