Original

येन कालेन रामश्च वनात्प्रत्यागमिष्यति ।तेन कालेन पुत्रस्ते कृतमूलो भविष्यति ।संगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् ॥ २५ ॥

Segmented

येन कालेन रामः च वनात् प्रत्यागमिष्यति तेन कालेन पुत्रस् ते कृत-मूलः भविष्यति संगृहीत-मनुष्यः च सुहृद्भिः सार्धम् आत्मवान्

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
रामः राम pos=n,g=m,c=1,n=s
pos=i
वनात् वन pos=n,g=n,c=5,n=s
प्रत्यागमिष्यति प्रत्यागम् pos=v,p=3,n=s,l=lrt
तेन तद् pos=n,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कृत कृ pos=va,comp=y,f=part
मूलः मूल pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
संगृहीत संग्रह् pos=va,comp=y,f=part
मनुष्यः मनुष्य pos=n,g=m,c=1,n=s
pos=i
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s