Original

इत्येवमुक्त्वा भरतो महात्मा प्रियेतरैर्वाक्यगणैस्तुदंस्ताम् ।शोकातुरश्चापि ननाद भूयः सिंहो यथा पर्वतगह्वरस्थः ॥ १५ ॥

Segmented

इत्य् एवम् उक्त्वा भरतो महात्मा प्रिय-इतरैः वाक्य-गणैः तुदंस् ताम् शोक-आतुरः च अपि ननाद भूयः सिंहो यथा पर्वत-गह्वर-स्थः

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
भरतो भरत pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
इतरैः इतर pos=n,g=m,c=3,n=p
वाक्य वाक्य pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
तुदंस् तुद् pos=va,g=m,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
शोक शोक pos=n,comp=y
आतुरः आतुर pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
भूयः भूयस् pos=i
सिंहो सिंह pos=n,g=m,c=1,n=s
यथा यथा pos=i
पर्वत पर्वत pos=n,comp=y
गह्वर गह्वर pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s