Original

तं हि नित्यं महाराजो बलवन्तं महाबलः ।अपाश्रितोऽभूद्धर्मात्मा मेरुर्मेरुवनं यथा ॥ १२ ॥

Segmented

तम् हि नित्यम् महा-राजः बलवन्तम् महा-बलः अपाश्रितो ऽभूद् धर्म-आत्मा मेरुः मेरु-वनम् यथा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
हि हि pos=i
नित्यम् नित्यम् pos=i
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
बलवन्तम् बलवत् pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
अपाश्रितो अपाश्रि pos=va,g=m,c=1,n=s,f=part
ऽभूद् भू pos=v,p=3,n=s,l=lun
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मेरुः मेरु pos=n,g=m,c=1,n=s
मेरु मेरु pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
यथा यथा pos=i