Original

ततः शोकेन संवीतः पितुर्मरणदुःखितः ।विललाप महातेजा भ्रान्ताकुलितचेतनः ॥ १६ ॥

Segmented

ततः शोकेन संवीतः पितुः मरण-दुःखितः विललाप महा-तेजाः भ्रान्त-आकुलित-चेतनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शोकेन शोक pos=n,g=m,c=3,n=s
संवीतः संव्ये pos=va,g=m,c=1,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
मरण मरण pos=n,comp=y
दुःखितः दुःखित pos=a,g=m,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
भ्रान्त भ्रम् pos=va,comp=y,f=part
आकुलित आकुलित pos=a,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s