Original

तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः ।आयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः ॥ ३ ॥

Segmented

तप्यमानम् समाज्ञाय वयस्याः प्रिय-वादिनः आयासम् हि विनेष्यन्तः सभायाम् चक्रिरे कथाः

Analysis

Word Lemma Parse
तप्यमानम् तप् pos=va,g=m,c=2,n=s,f=part
समाज्ञाय समाज्ञा pos=vi
वयस्याः वयस्य pos=n,g=m,c=1,n=p
प्रिय प्रिय pos=a,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
आयासम् आयास pos=n,g=m,c=2,n=s
हि हि pos=i
विनेष्यन्तः विनी pos=va,g=m,c=1,n=p,f=part
सभायाम् सभा pos=n,g=f,c=7,n=s
चक्रिरे कृ pos=v,p=3,n=p,l=lit
कथाः कथा pos=n,g=f,c=2,n=p