Original

ते हस्तिन पुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः ।पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥ १० ॥

Segmented

ते हस्तिनपुरे गङ्गाम् तीर्त्वा प्रत्यक्-मुखाः ययुः पाञ्चाल-देशम् आसाद्य मध्येन कुरुजाङ्गलम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हस्तिनपुरे हस्तिनपुर pos=n,g=n,c=7,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
तीर्त्वा तृ pos=vi
प्रत्यक् प्रत्यञ्च् pos=a,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
पाञ्चाल पाञ्चाल pos=n,comp=y
देशम् देश pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
मध्येन मध्य pos=n,g=n,c=3,n=s
कुरुजाङ्गलम् कुरुजाङ्गल pos=n,g=n,c=2,n=s