Original

तां ततः संपरिष्वज्य विलपन्तीं तपस्विनीम् ।व्यपनिन्युः सुदुःखार्तां कौसल्यां व्यावहारिकाः ॥ ११ ॥

Segmented

ताम् ततः सम्परिष्वज्य विलपन्तीम् तपस्विनीम् व्यपनिन्युः सु दुःख-आर्ताम् कौसल्याम् व्यावहारिकाः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
ततः ततस् pos=i
सम्परिष्वज्य सम्परिष्वज् pos=vi
विलपन्तीम् विलप् pos=va,g=f,c=2,n=s,f=part
तपस्विनीम् तपस्विनी pos=n,g=f,c=2,n=s
व्यपनिन्युः व्यपनी pos=v,p=3,n=p,l=lit
सु सु pos=i
दुःख दुःख pos=n,comp=y
आर्ताम् आर्त pos=a,g=f,c=2,n=s
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
व्यावहारिकाः व्यावहारिक pos=n,g=m,c=1,n=p