Original

ततस्तमन्तःपुरनादमुत्थितं समीक्ष्य वृद्धास्तरुणाश्च मानवाः ।स्त्रियश्च सर्वा रुरुदुः समन्ततः पुरं तदासीत्पुनरेव संकुलम् ॥ ३० ॥

Segmented

ततस् तम् अन्तःपुर-नादम् उत्थितम् समीक्ष्य वृद्धास् तरुणाः च मानवाः स्त्रियः च सर्वा रुरुदुः समन्ततः पुरम् तदा आसीत् पुनः एव संकुलम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अन्तःपुर अन्तःपुर pos=n,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part
समीक्ष्य समीक्ष् pos=vi
वृद्धास् वृद्ध pos=a,g=m,c=1,n=p
तरुणाः तरुण pos=a,g=m,c=1,n=p
pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
सर्वा सर्व pos=n,g=f,c=1,n=p
रुरुदुः रुद् pos=v,p=3,n=p,l=lit
समन्ततः समन्ततः pos=i
पुरम् पुर pos=n,g=n,c=1,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
एव एव pos=i
संकुलम् संकुल pos=a,g=n,c=1,n=s