Original

आदीप्तानिव वैदेहि सर्वतः पुष्पितान्नगान् ।स्वैः पुष्पैः किंशुकान्पश्य मालिनः शिशिरात्यये ॥ ६ ॥

Segmented

आदीप्तान् इव वैदेहि सर्वतः पुष्पितान् नगान् स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये

Analysis

Word Lemma Parse
आदीप्तान् आदीप् pos=va,g=m,c=2,n=p,f=part
इव इव pos=i
वैदेहि वैदेही pos=n,g=f,c=8,n=s
सर्वतः सर्वतस् pos=i
पुष्पितान् पुष्पित pos=a,g=m,c=2,n=p
नगान् नग pos=n,g=m,c=2,n=p
स्वैः स्व pos=a,g=n,c=3,n=p
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
किंशुकान् किंशुक pos=n,g=m,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
मालिनः मालिन् pos=a,g=m,c=2,n=p
शिशिरात्यये शिशिरात्यय pos=n,g=m,c=7,n=s