Original

पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियः ।अयमन्वगमद्भ्राता वनमेव दृढव्रतः ॥ १४ ॥

Segmented

पित्रा प्रव्राज्यमानम् माम् सौमित्रिः अनुजः प्रियः अयम् अन्वगमद् भ्राता वनम् एव दृढ-व्रतः

Analysis

Word Lemma Parse
पित्रा पितृ pos=n,g=m,c=3,n=s
प्रव्राज्यमानम् प्रव्राजय् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
अनुजः अनुज pos=n,g=m,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
अन्वगमद् अनुगम् pos=v,p=3,n=s,l=lun
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
एव एव pos=i
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s