Original

अविदूरादयं नद्या बहुपुष्पप्रवालवान् ।सुमहानिङ्गुदीवृक्षो वसामोऽत्रैव सारथे ॥ ५ ॥

Segmented

अविदूराद् अयम् नद्या बहु-पुष्प-प्रवालवत् सु महान् इङ्गुदी-वृक्षः वसामो अत्र एव सारथे

Analysis

Word Lemma Parse
अविदूराद् अविदूर pos=n,g=n,c=5,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
नद्या नदी pos=n,g=f,c=5,n=s
बहु बहु pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
प्रवालवत् प्रवालवत् pos=a,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
इङ्गुदी इङ्गुद pos=n,comp=y
वृक्षः वृक्ष pos=n,g=m,c=1,n=s
वसामो वस् pos=v,p=1,n=p,l=lat
अत्र अत्र pos=i
एव एव pos=i
सारथे सारथि pos=n,g=m,c=8,n=s