Original

अनुगम्य निवृत्तानां रामं नगरवासिनाम् ।उद्गतानीव सत्त्वानि बभूवुरमनस्विनाम् ॥ १ ॥

Segmented

अनुगम्य निवृत्तानाम् रामम् नगर-वासिनाम् उद्गतानि इव सत्त्वानि बभूवुः अमनस्विनाम्

Analysis

Word Lemma Parse
अनुगम्य अनुगम् pos=vi
निवृत्तानाम् निवृत् pos=va,g=m,c=6,n=p,f=part
रामम् राम pos=n,g=m,c=2,n=s
नगर नगर pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p
उद्गतानि उद्गम् pos=va,g=n,c=1,n=p,f=part
इव इव pos=i
सत्त्वानि सत्त्व pos=n,g=n,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
अमनस्विनाम् अमनस्विन् pos=a,g=m,c=6,n=p