Original

ततस्तु तमसा तीरं रम्यमाश्रित्य राघवः ।सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत् ॥ १ ॥

Segmented

ततस् तु तमसा-तीरम् रम्यम् आश्रित्य राघवः सीताम् उद्वीक्ष्य सौमित्रिम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
तमसा तमसा pos=n,comp=y
तीरम् तीर pos=n,g=n,c=2,n=s
रम्यम् रम्य pos=a,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
उद्वीक्ष्य उद्वीक्ष् pos=vi
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan