Original

अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते ।एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः ॥ २१ ॥

Segmented

अन् अवाप्त-आतपत्रस्य रश्मि-संतापितस्य ते एभिः छायाम् करिष्यामः स्वैः छत्त्रैः वाजपेयिकैः

Analysis

Word Lemma Parse
अन् अन् pos=i
अवाप्त अवाप् pos=va,comp=y,f=part
आतपत्रस्य आतपत्र pos=n,g=m,c=6,n=s
रश्मि रश्मि pos=n,comp=y
संतापितस्य संतापय् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
एभिः इदम् pos=n,g=n,c=3,n=p
छायाम् छाया pos=n,g=f,c=2,n=s
करिष्यामः कृ pos=v,p=1,n=p,l=lrt
स्वैः स्व pos=a,g=n,c=3,n=p
छत्त्रैः छत्त्र pos=n,g=n,c=3,n=p
वाजपेयिकैः वाजपेयिक pos=a,g=n,c=3,n=p