Original

सीतयाप्युपवस्तव्या रजनीयं मया सह ।एवमृत्विगुपाध्यायैः सह मामुक्तवान्पिता ॥ ३६ ॥

Segmented

सीतया अपि उपवस्तव्या रजनी इयम् मया सह एवम् ऋत्विज्-उपाध्यायैः सह माम् उक्तवान् पिता

Analysis

Word Lemma Parse
सीतया सीता pos=n,g=f,c=3,n=s
अपि अपि pos=i
उपवस्तव्या उपवस् pos=va,g=f,c=1,n=s,f=krtya
रजनी रजनी pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
एवम् एवम् pos=i
ऋत्विज् ऋत्विज् pos=n,comp=y
उपाध्यायैः उपाध्याय pos=n,g=m,c=3,n=p
सह सह pos=i
माम् मद् pos=n,g=,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s