Original

निशम्य तल्लक्ष्मणमातृवाक्यं रामस्य मातुर्नरदेवपत्न्याः ।सद्यः शरीरे विननाश शोकः शरद्गतो मेघ इवाल्पतोयः ॥ १६ ॥

Segmented

निशम्य तल् लक्ष्मण-मातृ-वाक्यम् रामस्य मातुः नरदेव-पत्न्याः सद्यः शरीरे विननाश शोकः शरद्-गतः मेघ इव अल्प-तोयः

Analysis

Word Lemma Parse
निशम्य निशामय् pos=vi
तल् तद् pos=n,g=n,c=2,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
मातृ मातृ pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
नरदेव नरदेव pos=n,comp=y
पत्न्याः पत्नी pos=n,g=f,c=6,n=s
सद्यः सद्यस् pos=i
शरीरे शरीर pos=n,g=n,c=7,n=s
विननाश विनश् pos=v,p=3,n=s,l=lit
शोकः शोक pos=n,g=m,c=1,n=s
शरद् शरद् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
मेघ मेघ pos=n,g=m,c=1,n=s
इव इव pos=i
अल्प अल्प pos=a,comp=y
तोयः तोय pos=n,g=m,c=1,n=s