Original

तं रथं राजपुत्राय सूतः कनकभूषितम् ।आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः ॥ १३ ॥

Segmented

तम् रथम् राज-पुत्राय सूतः कनक-भूषितम् आचचक्षे ऽञ्जलिम् कृत्वा युक्तम् परम-वाजिभिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
सूतः सूत pos=n,g=m,c=1,n=s
कनक कनक pos=n,comp=y
भूषितम् भूषय् pos=va,g=m,c=2,n=s,f=part
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
ऽञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
परम परम pos=a,comp=y
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p