Original

ननु पर्याप्तमेतत्ते पापे रामविवासनम् ।किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः ॥ १५ ॥

Segmented

ननु पर्याप्तम् एतत् ते पापे राम-विवासनम् किम् एभिः कृपणैः भूयः पातकैः अपि ते कृतैः

Analysis

Word Lemma Parse
ननु ननु pos=i
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
पापे पाप pos=a,g=f,c=8,n=s
राम राम pos=n,comp=y
विवासनम् विवासन pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
एभिः इदम् pos=n,g=n,c=3,n=p
कृपणैः कृपण pos=n,g=n,c=3,n=p
भूयः भूयस् pos=i
पातकैः पातक pos=n,g=n,c=3,n=p
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
कृतैः कृ pos=va,g=n,c=3,n=p,f=part