Original

प्रतीक्षमाणोऽभिजनं तदार्तमनार्तरूपः प्रहसन्निवाथ ।जगाम रामः पितरं दिदृक्षुः पितुर्निदेशं विधिवच्चिकीर्षुः ॥ २२ ॥

Segmented

प्रतीक्षमाणो ऽभिजनम् तदा आर्तम् अन् आर्त-रूपः प्रहसन्न् इव अथ जगाम रामः पितरम् दिदृक्षुः पितुः निदेशम् विधिवच् चिकीर्षुः

Analysis

Word Lemma Parse
प्रतीक्षमाणो प्रतीक्ष् pos=va,g=m,c=1,n=s,f=part
ऽभिजनम् अभिजन pos=n,g=m,c=2,n=s
तदा तदा pos=i
आर्तम् आर्त pos=a,g=m,c=2,n=s
अन् अन् pos=i
आर्त आर्त pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अथ अथ pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
निदेशम् निदेश pos=n,g=m,c=2,n=s
विधिवच् विधिवत् pos=i
चिकीर्षुः चिकीर्षु pos=a,g=m,c=1,n=s