Original

ततः शासनमाज्ञाय भ्रातुः शुभतरं प्रियम् ।गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ॥ १ ॥

Segmented

ततः शासनम् आज्ञाय भ्रातुः शुभतरम् प्रियम् गत्वा स प्रविवेश आशु सुयज्ञस्य निवेशनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शासनम् शासन pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
शुभतरम् शुभतर pos=a,g=n,c=2,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
गत्वा गम् pos=vi
तद् pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
सुयज्ञस्य सुयज्ञ pos=n,g=m,c=6,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s