Original

सर्वान्देवान्नमस्यन्ति रामस्यार्थे यशस्विनः ।तेषामायाचितं देव त्वत्प्रसादात्समृध्यताम् ॥ ३२ ॥

Segmented

सर्वान् देवान् नमस्यन्ति रामस्य अर्थे यशस्विनः तेषाम् आयाचितम् देव त्वद्-प्रसादात् समृध्यताम्

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
नमस्यन्ति नमस्य् pos=v,p=3,n=p,l=lat
रामस्य राम pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
आयाचितम् आयाचित pos=n,g=n,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
समृध्यताम् समृध् pos=v,p=3,n=s,l=lot