Original

स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् ।ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥ २ ॥

Segmented

स पितुः चरणौ पूर्वम् अभिवाद्य विनीत-वत् ततो ववन्दे चरणौ कैकेय्याः सु समाहितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
चरणौ चरण pos=n,g=m,c=2,n=d
पूर्वम् पूर्वम् pos=i
अभिवाद्य अभिवादय् pos=vi
विनीत विनी pos=va,comp=y,f=part
वत् वत् pos=i
ततो ततस् pos=i
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
चरणौ चरण pos=n,g=m,c=2,n=d
कैकेय्याः कैकेयी pos=n,g=f,c=6,n=s
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s