Original

ततः पुरस्तात्सहसा विनिर्गतो महीपतीन्द्वारगतान्विलोकयन् ।ददर्श पौरान्विविधान्महाधनानुपस्थितान्द्वारमुपेत्य विष्ठितान् ॥ २४ ॥

Segmented

ततः पुरस्तात् सहसा विनिर्गतो महीपतीन् द्वार-गतान् विलोकयन् ददर्श पौरान् विविधान् महाधनान् उपस्थितान् द्वारम् उपेत्य विष्ठितान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुरस्तात् पुरस्तात् pos=i
सहसा सहसा pos=i
विनिर्गतो विनिर्गम् pos=va,g=m,c=1,n=s,f=part
महीपतीन् महीपति pos=n,g=m,c=2,n=p
द्वार द्वार pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
विलोकयन् विलोकय् pos=va,g=m,c=1,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
पौरान् पौर pos=n,g=m,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
महाधनान् महाधन pos=a,g=m,c=2,n=p
उपस्थितान् उपस्था pos=va,g=m,c=2,n=p,f=part
द्वारम् द्वार pos=n,g=n,c=2,n=s
उपेत्य उपे pos=vi
विष्ठितान् विष्ठा pos=va,g=m,c=2,n=p,f=part