Original

न प्रभातं त्वयेच्छामि मयायं रचितोऽञ्जलिः ।अथ वा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् ।नृशंसां कैकेयीं द्रष्टुं यत्कृते व्यसनं महत् ॥ १० ॥

Segmented

न प्रभातम् त्वया इच्छामि मया अयम् रचितो ऽञ्जलिः अथवा गम्यताम् शीघ्रम् न अहम् इच्छामि निर्घृणाम् नृशंसाम् कैकेयीम् द्रष्टुम् यद्-कृते व्यसनम् महत्

Analysis

Word Lemma Parse
pos=i
प्रभातम् प्रभात pos=n,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
रचितो रचय् pos=va,g=m,c=1,n=s,f=part
ऽञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
अथवा अथवा pos=i
गम्यताम् गम् pos=v,p=3,n=s,l=lot
शीघ्रम् शीघ्रम् pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
निर्घृणाम् निर्घृण pos=a,g=f,c=2,n=s
नृशंसाम् नृशंस pos=a,g=f,c=2,n=s
कैकेयीम् कैकेयी pos=n,g=f,c=2,n=s
द्रष्टुम् दृश् pos=vi
यद् यद् pos=n,comp=y
कृते कृते pos=i
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s