Original

तैर्दुरात्मभिराविष्टानाश्रमान्प्रजिहासवः ।गमनायान्यदेशस्य चोदयन्त्यृषयोऽद्य माम् ॥ १८ ॥

Segmented

तैः दुरात्मभिः आविष्टान् आश्रमान् प्रजिहासवः गमनाय अन्य-देशस्य चोदयन्त्य् ऋषयो ऽद्य माम्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
दुरात्मभिः दुरात्मन् pos=a,g=m,c=3,n=p
आविष्टान् आविश् pos=va,g=m,c=2,n=p,f=part
आश्रमान् आश्रम pos=n,g=m,c=2,n=p
प्रजिहासवः प्रजिहासु pos=a,g=m,c=1,n=p
गमनाय गमन pos=n,g=n,c=4,n=s
अन्य अन्य pos=n,comp=y
देशस्य देश pos=n,g=m,c=6,n=s
चोदयन्त्य् चोदय् pos=v,p=3,n=p,l=lat
ऋषयो ऋषि pos=n,g=m,c=1,n=p
ऽद्य अद्य pos=i
माम् मद् pos=n,g=,c=2,n=s