Original

तस्य त्वेवं प्रभावस्य धर्मज्ञस्य महात्मनः ।सुतार्थं तप्यमानस्य नासीद्वंशकरः सुतः ॥ १ ॥

Segmented

तस्य त्व् एवम् प्रभावस्य धर्म-ज्ञस्य महात्मनः सुत-अर्थम् तप्यमानस्य न आसीत् वंश-करः सुतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
त्व् तु pos=i
एवम् एवम् pos=i
प्रभावस्य प्रभाव pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
ज्ञस्य ज्ञ pos=a,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
सुत सुत pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तप्यमानस्य तप् pos=va,g=m,c=6,n=s,f=part
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
वंश वंश pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s