Original

स सुतैः कृतगोदानैर्वृतश्च नृपतिस्तदा ।लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः ॥ २४ ॥

Segmented

स सुतैः कृत-गोदानैः वृतः च नृपतिस् तदा लोकपालैः इव आभाति वृतः सौम्यः प्रजापतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सुतैः सुत pos=n,g=m,c=3,n=p
कृत कृ pos=va,comp=y,f=part
गोदानैः गोदान pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
pos=i
नृपतिस् नृपति pos=n,g=m,c=1,n=s
तदा तदा pos=i
लोकपालैः लोकपाल pos=n,g=m,c=3,n=p
इव इव pos=i
आभाति आभा pos=v,p=3,n=s,l=lat
वृतः वृ pos=va,g=m,c=1,n=s,f=part
सौम्यः सौम्य pos=a,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s