Original

सदृशं कुलसंबन्धं यदाज्ञापयथः स्वयम् ।एवं भवतु भद्रं वः कुशध्वजसुते इमे ।पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ ॥ १० ॥

Segmented

सदृशम् कुल-संबन्धम् यद् आज्ञापयथः स्वयम् एवम् भवतु भद्रम् वः कुशध्वज-सुते इमे पत्न्यौ भजेताम् सहितौ शत्रुघ्न-भरतौ उभौ

Analysis

Word Lemma Parse
सदृशम् सदृश pos=a,g=m,c=2,n=s
कुल कुल pos=n,comp=y
संबन्धम् सम्बन्ध pos=n,g=m,c=2,n=s
यद् यत् pos=i
आज्ञापयथः आज्ञापय् pos=v,p=2,n=d,l=lat
स्वयम् स्वयम् pos=i
एवम् एवम् pos=i
भवतु भू pos=v,p=3,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=4,n=p
कुशध्वज कुशध्वज pos=n,comp=y
सुते सुता pos=n,g=f,c=2,n=d
इमे इदम् pos=n,g=f,c=2,n=d
पत्न्यौ पत्नी pos=n,g=f,c=2,n=d
भजेताम् भज् pos=v,p=3,n=d,l=vidhilin
सहितौ सहित pos=a,g=m,c=1,n=d
शत्रुघ्न शत्रुघ्न pos=n,comp=y
भरतौ भरत pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d