Original

तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च ।ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमितप्रभः ।पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः ॥ १२ ॥

Segmented

तम् उवाच महा-तेजाः प्रणम्य अभिप्रसाद्य च ब्रह्मर्षिम् तपसा दीप्तम् राजर्षिः अमित-प्रभः पृष्ट्वा सर्वत्र कुशलम् ऋचीकम् तम् इदम् वचः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
प्रणम्य प्रणम् pos=vi
अभिप्रसाद्य अभिप्रसादय् pos=vi
pos=i
ब्रह्मर्षिम् ब्रह्मर्षि pos=n,g=m,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
अमित अमित pos=a,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
पृष्ट्वा प्रच्छ् pos=vi
सर्वत्र सर्वत्र pos=i
कुशलम् कुशल pos=n,g=n,c=2,n=s
ऋचीकम् ऋचीक pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s