Original

ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवः ।यैस्तत्तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा ॥ २१ ॥

Segmented

ततो गत्वा आश्रम-पदम् मुमोच अस्त्राणि पार्थिवः यैस् तत् तपः-वनम् सर्वम् निर्दग्धम् च अस्त्र-तेजसा

Analysis

Word Lemma Parse
ततो ततस् pos=i
गत्वा गम् pos=vi
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
यैस् यद् pos=n,g=n,c=3,n=p
तत् तद् pos=n,g=n,c=1,n=s
तपः तपस् pos=n,comp=y
वनम् वन pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
निर्दग्धम् निर्दह् pos=va,g=n,c=1,n=s,f=part
pos=i
अस्त्र अस्त्र pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s