Original

कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रुतः ।गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः ॥ १९ ॥

Segmented

कुशनाभ-सुतः त्व् आसीद् गाधिः इत्य् एव विश्रुतः गाधेः पुत्रो महा-तेजाः विश्वामित्रो महा-मुनिः

Analysis

Word Lemma Parse
कुशनाभ कुशनाभ pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
त्व् तु pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
गाधिः गाधि pos=n,g=m,c=1,n=s
इत्य् इति pos=i
एव एव pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
गाधेः गाधि pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s