Original

प्रजापतिसुतस्त्वासीत्कुशो नाम महीपतिः ।कुशस्य पुत्रो बलवान्कुशनाभः सुधार्मिकः ॥ १८ ॥

Segmented

प्रजापति-सुतः त्व् आसीत् कुशो नाम महीपतिः कुशस्य पुत्रो बलवान् कुशनाभः सु धार्मिकः

Analysis

Word Lemma Parse
प्रजापति प्रजापति pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
त्व् तु pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
कुशो कुश pos=n,g=m,c=1,n=s
नाम नाम pos=i
महीपतिः महीपति pos=n,g=m,c=1,n=s
कुशस्य कुश pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
कुशनाभः कुशनाभ pos=n,g=m,c=1,n=s
सु सु pos=i
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s