Original

तामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगैः ।सहस्रदैः सत्यरतैर्महात्मभिर्महर्षिकल्पैरृषिभिश्च केवलैः ॥ २३ ॥

Segmented

ताम् अग्निमद्भिः गुणवद्भिः आवृताम् द्विजोत्तमैः वेद-षडङ्ग-पारगैः सहस्र-दैः सत्य-रतैः महात्मभिः महा-ऋषि-कल्पैः ऋषिभिः च केवलैः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अग्निमद्भिः अग्निमत् pos=a,g=m,c=3,n=p
गुणवद्भिः गुणवत् pos=a,g=m,c=3,n=p
आवृताम् आवृ pos=va,g=f,c=2,n=s,f=part
द्विजोत्तमैः द्विजोत्तम pos=n,g=m,c=3,n=p
वेद वेद pos=n,comp=y
षडङ्ग षडङ्ग pos=n,comp=y
पारगैः पारग pos=a,g=m,c=3,n=p
सहस्र सहस्र pos=n,comp=y
दैः pos=a,g=m,c=3,n=p
सत्य सत्य pos=n,comp=y
रतैः रम् pos=va,g=m,c=3,n=p,f=part
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
केवलैः केवल pos=a,g=m,c=3,n=p