Original

गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम् ।क्षणभूतेव सा रात्रिः संवृत्तेयं महातपः ।इमां चिन्तयतः सर्वां निखिलेन कथां तव ॥ ५ ॥

Segmented

गता भगवती रात्रिः श्रोतव्यम् परमम् श्रुतम् क्षण-भूता इव सा रात्रिः संवृत्ता इयम् महा-तपस् इमाम् चिन्तयतः सर्वाम् निखिलेन कथाम् तव

Analysis

Word Lemma Parse
गता गम् pos=va,g=f,c=1,n=s,f=part
भगवती भगवत् pos=a,g=f,c=1,n=s
रात्रिः रात्रि pos=n,g=f,c=1,n=s
श्रोतव्यम् श्रु pos=va,g=n,c=1,n=s,f=krtya
परमम् परम pos=a,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
क्षण क्षण pos=n,comp=y
भूता भू pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
सा तद् pos=n,g=f,c=1,n=s
रात्रिः रात्रि pos=n,g=f,c=1,n=s
संवृत्ता संवृत् pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
तपस् तपस् pos=n,g=m,c=8,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
चिन्तयतः चिन्तय् pos=va,g=m,c=6,n=s,f=part
सर्वाम् सर्व pos=n,g=f,c=2,n=s
निखिलेन निखिल pos=a,g=n,c=3,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s