Original

ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् ।रोषादभ्यखनन्सर्वे पृथिवीं सगरात्मजाः ॥ २३ ॥

Segmented

ततः प्रागुत्तराम् गत्वा सागराः प्रथिताम् दिशम् रोषाद् अभ्यखनन् सर्वे पृथिवीम् सगर-आत्मजाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रागुत्तराम् प्रागुत्तरा pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
सागराः सागर pos=n,g=m,c=1,n=p
प्रथिताम् प्रथ् pos=va,g=f,c=2,n=s,f=part
दिशम् दिश् pos=n,g=f,c=2,n=s
रोषाद् रोष pos=n,g=m,c=5,n=s
अभ्यखनन् अभिखन् pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सगर सगर pos=n,comp=y
आत्मजाः आत्मज pos=n,g=m,c=1,n=p