Original

समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् ।षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् ॥ २२ ॥

Segmented

समालभ्य ततः सर्वे कृत्वा च एनम् प्रदक्षिणम् षष्टिः पुत्र-सहस्राणि बिभिदुः वसुधा-तलम्

Analysis

Word Lemma Parse
समालभ्य समालभ् pos=vi
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
कृत्वा कृ pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
षष्टिः षष्टि pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
बिभिदुः भिद् pos=v,p=3,n=p,l=lit
वसुधा वसुधा pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s