Original

अयं शोणः शुभजलो गाधः पुलिनमण्डितः ।कतरेण पथा ब्रह्मन्संतरिष्यामहे वयम् ॥ ४ ॥

Segmented

अयम् शोणः शुभ-जलः गाधः पुलिन-मण्डितः कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
शोणः शोण pos=a,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
जलः जल pos=n,g=m,c=1,n=s
गाधः गाध pos=a,g=m,c=1,n=s
पुलिन पुलिन pos=n,comp=y
मण्डितः मण्डय् pos=va,g=m,c=1,n=s,f=part
कतरेण कतर pos=n,g=m,c=3,n=s
पथा पथिन् pos=n,g=m,c=3,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
संतरिष्यामहे संतृ pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p