Original

एतस्मिन्नेव काले तु चूली नाम महामुनिः ।ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् ॥ ११ ॥

Segmented

एतस्मिन्न् एव काले तु चूली नाम महा-मुनिः ऊर्ध्वरेताः शुभ-आचारः ब्राह्मम् तप उपागमत्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
चूली चूलिन् pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
ऊर्ध्वरेताः ऊर्ध्वरेतस् pos=a,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
आचारः आचार pos=n,g=m,c=1,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
तप तपस् pos=n,g=n,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun