Original

एवमुक्ते ततस्ताभ्यां सर्व एव महर्षयः ।विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् ॥ ५ ॥

Segmented

एवम् उक्ते ततस् ताभ्याम् सर्व एव महा-ऋषयः विश्वामित्रम् पुरस्कृत्य रामम् वचनम् अब्रुवन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
ततस् ततस् pos=i
ताभ्याम् तद् pos=n,g=m,c=3,n=d
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
रामम् राम pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan