Original

ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् ।प्रतिप्लवनमेवाथ मधूनां हरणं तथा ॥ २३ ॥

Segmented

ग्रहणम् वायुसूनोः च लङ्का-दाह-अभिगर्जनम् प्रतिप्लवनम् एव अथ मधूनाम् हरणम् तथा

Analysis

Word Lemma Parse
ग्रहणम् ग्रहण pos=n,g=n,c=2,n=s
वायुसूनोः वायुसूनु pos=n,g=m,c=6,n=s
pos=i
लङ्का लङ्का pos=n,comp=y
दाह दाह pos=n,comp=y
अभिगर्जनम् अभिगर्जन pos=n,g=n,c=2,n=s
प्रतिप्लवनम् प्रतिप्लवन pos=n,g=n,c=2,n=s
एव एव pos=i
अथ अथ pos=i
मधूनाम् मधु pos=n,g=n,c=6,n=p
हरणम् हरण pos=n,g=n,c=2,n=s
तथा तथा pos=i