Original

अथ तस्याप्रमेयस्य तद्वनं परिपृच्छतः ।विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ॥ १ ॥

Segmented

अथ तस्य अप्रमेयस्य तद् वनम् परिपृच्छतः विश्वामित्रो महा-तेजाः व्याख्यातुम् उपचक्रमे

Analysis

Word Lemma Parse
अथ अथ pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अप्रमेयस्य अप्रमेय pos=a,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
परिपृच्छतः परिप्रच्छ् pos=va,g=m,c=6,n=s,f=part
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
व्याख्यातुम् व्याख्या pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit