Original

स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ।कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ॥ २९ ॥

Segmented

स राज्ञः प्रतिगृह्य अर्घ्यम् शास्त्र-दृष्टेन कर्मणा कुशलम् च अव्ययम् च एव पर्यपृच्छन् नराधिपम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
शास्त्र शास्त्र pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
pos=i
अव्ययम् अव्यय pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
पर्यपृच्छन् परिप्रच्छ् pos=v,p=3,n=s,l=lan
नराधिपम् नराधिप pos=n,g=m,c=2,n=s