Original

सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा ।वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा ।तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् ॥ १२ ॥

Segmented

सौमित्रिम् लक्ष्मणम् इति शत्रुघ्नम् अपरम् तथा वसिष्ठः परम-प्रीतः नामानि कृतवांस् तदा तेषाम् जन्म-क्रिया-आदीनि सर्व-कर्माणि अकारयत्

Analysis

Word Lemma Parse
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
इति इति pos=i
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
अपरम् अपर pos=n,g=m,c=2,n=s
तथा तथा pos=i
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
नामानि नामन् pos=n,g=n,c=2,n=p
कृतवांस् कृ pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
जन्म जन्मन् pos=n,comp=y
क्रिया क्रिया pos=n,comp=y
आदीनि आदि pos=n,g=n,c=2,n=p
सर्व सर्व pos=n,comp=y
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
अकारयत् कारय् pos=v,p=3,n=s,l=lan