Original

कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः ।शोभार्थं तस्य यज्ञस्य काञ्चनालंकृता भवन् ॥ १९ ॥

Segmented

कारिताः सर्व एव एते शास्त्र-ज्ञैः यज्ञ-कोविदैः शोभा-अर्थम् तस्य यज्ञस्य काञ्चन-अलंकृताः भवन्

Analysis

Word Lemma Parse
कारिताः कारय् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
एते एतद् pos=n,g=m,c=1,n=p
शास्त्र शास्त्र pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
यज्ञ यज्ञ pos=n,comp=y
कोविदैः कोविद pos=a,g=m,c=3,n=p
शोभा शोभा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
काञ्चन काञ्चन pos=n,comp=y
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part
भवन् भू pos=v,p=3,n=p,l=lan_unaug