Original

तथेति राजा संश्रुत्य गमनं तस्य धीमतः ।उवाच वचनं विप्रं गच्छ त्वं सह भार्यया ॥ २० ॥

Segmented

तथा इति राजा संश्रुत्य गमनम् तस्य धीमतः उवाच वचनम् विप्रम् गच्छ त्वम् सह भार्यया

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
राजा राजन् pos=n,g=m,c=1,n=s
संश्रुत्य संश्रु pos=vi
गमनम् गमन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
सह सह pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s