Original

स चास्य कथयामास शबरीं धर्मचारिणीम् ।श्रमणीं धर्मनिपुणामभिगच्छेति राघव ।सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः ॥ ४६ ॥

Segmented

स च अस्य कथयामास शबरीम् धर्मचारिणीम् श्रमणीम् धर्म-निपुणाम् अभिगच्छ इति राघव सो ऽभ्यगच्छन् महा-तेजाः शबरीम् शत्रु-सूदनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
शबरीम् शबरी pos=n,g=f,c=2,n=s
धर्मचारिणीम् धर्मचारिणी pos=n,g=f,c=2,n=s
श्रमणीम् श्रमणा pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
निपुणाम् निपुण pos=a,g=f,c=2,n=s
अभिगच्छ अभिगम् pos=v,p=2,n=s,l=lot
इति इति pos=i
राघव राघव pos=n,g=m,c=8,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यगच्छन् अभिगम् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
शबरीम् शबरी pos=n,g=f,c=2,n=s
शत्रु शत्रु pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s