Original

वसतस्तस्य रामस्य वने वनचरैः सह ।ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम् ॥ ३५ ॥

Segmented

वसतस् तस्य रामस्य वने वन-चरैः सह ऋषयो ऽभ्यागमन् सर्वे वधाय असुर-रक्षसाम्

Analysis

Word Lemma Parse
वसतस् वस् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
वने वन pos=n,g=n,c=7,n=s
वन वन pos=n,comp=y
चरैः चर pos=a,g=m,c=3,n=p
सह सह pos=i
ऋषयो ऋषि pos=n,g=m,c=1,n=p
ऽभ्यागमन् अभ्यागम् pos=v,p=3,n=p,l=lun
सर्वे सर्व pos=n,g=m,c=1,n=p
वधाय वध pos=n,g=m,c=4,n=s
असुर असुर pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p