Original

मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिर् मन्दाराणाम् अनुतटरुहां छायया वारितोष्णाः ।अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः संक्रीडन्ते मणिभिरमरप्रार्थितया यत्र कन्याः ॥ ६ ॥

Segmented

मन्दाकिन्याः सलिल-शिशिरैः सेव्यमाना मरुद्भिः मन्दाराणाम् अनु तट-रुहाम् छायया वारित-उष्ण अन्वेष्टव्यैः कनक-सिकता-मुष्टि-निक्षेप-गूढैः संक्रीडन्ते मणिभिः अमर-प्रार्थितया यत्र कन्याः

Analysis

Word Lemma Parse
मन्दाकिन्याः मन्दाकिनी pos=n,g=f,c=6,n=s
सलिल सलिल pos=n,comp=y
शिशिरैः शिशिर pos=a,g=m,c=3,n=p
सेव्यमाना सेव् pos=va,g=f,c=1,n=p,f=part
मरुद्भिः मरुत् pos=n,g=,c=3,n=p
मन्दाराणाम् मन्दार pos=n,g=m,c=6,n=p
अनु अनु pos=i
तट तट pos=n,comp=y
रुहाम् रुह pos=a,g=f,c=2,n=s
छायया छाया pos=n,g=f,c=3,n=s
वारित वारय् pos=va,comp=y,f=part
उष्ण उष्ण pos=n,g=f,c=1,n=p
अन्वेष्टव्यैः अन्विष् pos=va,g=m,c=3,n=p,f=krtya
कनक कनक pos=n,comp=y
सिकता सिकता pos=n,comp=y
मुष्टि मुष्टि pos=n,comp=y
निक्षेप निक्षेप pos=n,comp=y
गूढैः गुह् pos=va,g=m,c=3,n=p,f=part
संक्रीडन्ते संक्रीड् pos=v,p=3,n=p,l=lat
मणिभिः मणि pos=n,g=m,c=3,n=p
अमर अमर pos=n,comp=y
प्रार्थितया प्रार्थय् pos=va,g=f,c=3,n=s,f=part
यत्र यत्र pos=i
कन्याः कन्या pos=n,g=f,c=1,n=p