Original

शापान्तो मे भुजगशयनाद् उत्थिते शार्ङ्गपाणौ शेषान् मासान् गमय चतुरो लोचने मीलयित्वा ।पश्चाद् आवां विरहगुणितं तं तम् आत्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ५० ॥

Segmented

शाप-अन्तः मे भुजग-शयनात् उत्थिते शार्ङ्गपाणौ शेषान् मासान् गमय चतुरो लोचने मीलयित्वा पश्चाद् आवाम् विरह-गुणितम् तम् तम् आत्म-अभिलाषम् निर्वेक्ष्यावः परिणत-शरद्-चन्द्रिकासु क्षपासु

Analysis

Word Lemma Parse
शाप शाप pos=n,comp=y
अन्तः अन्त pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भुजग भुजग pos=n,comp=y
शयनात् शयन pos=n,g=n,c=5,n=s
उत्थिते उत्था pos=va,g=m,c=7,n=s,f=part
शार्ङ्गपाणौ शार्ङ्गपाणि pos=n,g=m,c=7,n=s
शेषान् शेष pos=a,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
गमय गमय् pos=v,p=2,n=s,l=lot
चतुरो चतुर् pos=n,g=m,c=2,n=p
लोचने लोचन pos=n,g=n,c=2,n=d
मीलयित्वा मीलय् pos=vi
पश्चाद् पश्चात् pos=i
आवाम् मद् pos=n,g=,c=1,n=d
विरह विरह pos=n,comp=y
गुणितम् गुणय् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
अभिलाषम् अभिलाष pos=n,g=m,c=2,n=s
निर्वेक्ष्यावः निर्विश् pos=v,p=1,n=d,l=lrt
परिणत परिणम् pos=va,comp=y,f=part
शरद् शरद् pos=n,comp=y
चन्द्रिकासु चन्द्रिका pos=n,g=f,c=7,n=p
क्षपासु क्षपा pos=n,g=f,c=7,n=p